हिरण्यवर्णां हरिणीं सुवर्णरजतस्त्रजाम् ।
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह॥ (१)
तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् ।
यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम्॥ (२)
अश्वपूर्वां रथमध्यां हस्तिनाद्प्रबोधिनीम् ।
श्रियं देवीमुप ह्वये श्रीर्मा देवी जुषताम् ॥ (३)
कांसोस्मितां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम् ।
पद्मे स्थितां पदमवर्णां तामिहोप हवये श्रियम्॥ (४)
चन्द्रां प्रभासां यशसा ज्वलन्ती श्रियं लोके देवजुष्टामुदाराम् ।
तां पद्मनेमिं शरणं प्रपधे अलक्ष्मीर्मे नश्यतां त्वां वृणे॥ (५)
आदित्यवर्णे तप्सोड़धि जातो वनस्पतिस्तव वृक्षोsथ बिल्वः,
तस्य फलानि तपसा नुदन्तु मायान्तरा याष्च बाह्या अलक्ष्मीः॥ (६)
उपैतु मां देवसखः कीर्तिश्च मणिना सह,
प्रादुर्भूतोडस्मि राष्ट्रेडस्मिन् कीर्तिमध्दिं ददातु में ॥ (७)
क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम्,
अभूतिमसमृद्धिं च सर्वां निर्णुद में गृहात्॥ (८)
गन्धद्वारां दुराधर्षां नित्यापुष्टां करीषिणीम्,
ईश्वरीं सर्वभूतानां तामिहोपहवये श्रियम्। (९)
मनसः काममाकूतिं वाचः सत्यमशीमहि,
पशुनां रूपमन्नस्य मयि श्रीः श्रयतां यशः॥ (१०)
कर्दमेन प्रजा भूता मयि संभव कर्दम,
श्रियं वासय मे कुले मातरं पद्ममालिनीम्॥ (११)
आपः सृजन्तु स्निग्धानि चिक्लीत वस् मे गृहे,
नि च देवीं मातरं श्रियं वासय मे कुले॥ (१२)
आद्रॉ पुष्करिणीं पुष्टिं पिंगलां पदमालिनीम्,
चन्द्रां हिरण्मयीं लक्ष्मी जातवेदो म आवह॥ (१३)
आद्रां यः करिणीं यष्टिं सुवर्णां हेममालिनीम्,
सूर्यां हिरण्मयीं लक्ष्मी जातवेदो म आवह॥ (१४)
तांम आवह जातवेदो लक्ष्मीमनपगामिनीम्,
यस्यां हिरण्यं प्रभूतं गावो दास्योश्वान् विन्देयं पुरुषानहम्॥ (१५)
यः शुचिः प्रयतो भूत्वा जुहुयादाज्यमन्वहम्,
सूक्तं पञ्चदशर्चं च श्रीकामः सततं जपेत्॥ (१६)
